top of page
गोस्तवनम् | Go stavanam
गोस्तवनम्
अवतारो गवां श्रेष्ठः सर्वेषु भुवि जन्तुषु ।
यतस्तासां विका रोऽपि ह्युपकाराय जायते ॥ १॥
गच्छन्त्यः संस्थिताः सुप्ताः शकृन्मूत्रकृतोऽपि वा ।
गावः पुनन्ति लोकांस्त्रीनतो देवत्वमागताः ॥ २॥
शुभ्राः पीतास्तथा श्यामाश्चित्रा वै लोहितास्तथा ।
कुर्वते नृहृदि स्थानं गावः प्रकृतिशोभनाः ॥ ३॥
लोकेऽमृतं यथा क्षीरं गोमयं पावनं परम् ।
आयुर्घृतं तथा चैव मूत्रं रोगविनाशनम् ॥ ४॥
अपूर्वं पञ्चगव्यं च तीर्थं कल्मषनाशनम्…bottom of page
